Janta Ki Awaz
लेख

श्री शीतलाष्टकम्

श्री शीतलाष्टकम्
X

शीतला सप्तमी २०२१

(लेखन व प्रस्तुती निरंजन मनमाडकर )

अस्य श्रीशीतलास्तोत्रमन्त्रस्य महादेव ऋषिः अनुष्टुप् छन्दः श्री शीतला देवता लक्ष्मीर्बीजम्, भवानी शक्तिः सर्वविस्फोटकनिवृत्तये जपे विनियोगः

ईश्वर उवाच

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् |

मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ||१ ||

वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् |

यामासाद्य निवर्तेत विस्फोटकभयं महत् ||२ ||

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः |

विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ||३||

यस्त्वामुदकमध्ये तु धृत्वा पूजयते नरः |

विस्फोटकभयं घोरं गृहे तस्य न जायते ||४||

शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च |

प्रणष्टचक्षुषः पुंसस्त्विमाहुर्जीवनौषधम् ||५||

शीतले तनुजान् रोगान्नॄणां हरसि दुस्त्यजान् |

विस्फोटकविदीर्णांनां त्वमेकामृतवर्षिणी ||६||

गलगण्डग्रहा रोगा ये चान्ये दारूणा नॄणाम् |

त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ||७||

न मन्त्रो नौषधं तत्र पापरोगस्य विद्यते |

त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ||८||

मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् |

यस्त्वां संचिन्तयेद्देवि तस्य मृत्युर्न जायते ||९||

अष्टकं शीतलिदेव्या यो नरः प्रपठेत्सदा |

विस्फोटकभयं घोरं गृहे तस्य न जायते ||१०||

श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः |

उपसर्गविनाशाय परं स्वस्त्ययनं महत् ||११||

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता |

शीतले त्वं जगद्धात्री शीतलायै नमो नमः ||१२||

रासभो गर्दभश्चैव खरो वैशाखनन्दनः |

शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ||१३||

एतानि खर नामानि शीतलाग्रे तु यः पठेत् |

तस्य गेहे शिशुनां च शीतलारूङ् न जायते ||१४||

शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् |

दातव्यं च सदा तस्मै श्रद्धा भक्तियुताय च ||१५||

©️निरंजन मनमाडकर सुरत गुजरात

ॐ नमश्चण्डिकायै ॐ श्री मात्रे नमः

इति श्री स्कन्दमहापुराणे शीतलास्तोत्रम् संपूर्णम्

श्री जगदम्बार्पणमस्तु

आप सभी को शीतला सप्तमी की हार्दिक शुभकामनाएं माँ भगवती शीतला की कृपा से आप महामारी कोरोना से सुरक्षित रहें यही प्रार्थना

जय शीतला माता!

ॐ नमश्चण्डिकायै

लेखन व प्रस्तुती निरंजन मनमाडकर सुरत गुजरात

Next Story
Share it